|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.25. अध्यायः 025
Mahabharata - Sabha Parva - Chapter Topics
जरासन्धवधः॥ 1॥ जरासन्धेन बन्धीकृतानां राज्ञां कृष्णेन मोचनम्॥2॥ मोचितै राजभिः कृष्णाय रत्नादिदानम् ॥3॥ कृष्णानुज्ञया जरासन्धपुत्रेण सहदेवेन पितुरौर्ध्वदैहिककरणम्॥4॥ सहदेवं राज्येऽभिषिच्य श्रीकृष्णभीमार्जुनानामिन्द्रप्रस्थगमनम्॥ 5॥ जरासन्धवधश्रवणहृष्टेन युधिष्ठिरेण पूजितस्य कृष्णस्य द्वारकागमनम्॥ 6॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन उवाच।
भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम्।
बुद्धिमास्थाय विपुलां जरासन्धवधोप्सया॥ 2-25-1(12317)
नायं पापो मया कृष्ण युक्तः स्यादनुरोधितुम्।
प्रायेण यदुशार्दूल बान्धवक्षयकृत्तव॥ 2-25-2(12318)
एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम्।
त्वरयन्पुरुषव्याघ्रो जरासन्धवधेप्सया॥ 2-25-3(12319)
यत्ते दैवं परं सत्वं यच्च ते मातरिश्वनः।
बलं भीमं जरासन्धे दर्शयाशु तदद्य वै॥ 2-25-4(12320)
`तवैष वध्यो दुर्बुद्धिर्जरासन्धो महारथः।
इत्यन्तरिक्षे त्वश्रौषं यदा वायुरवाप्यते॥ 2-25-5(12321)
गोमन्ते पर्वतश्रेष्ठे येनैष परिमोक्षितः।
बलदेवबलं प्राप्य कोऽन्यो जीवेत्तु मागधात्॥ 2-25-6(12322)
तदस्य मृत्युर्विहितस्त्वदृते न महाबल।
वायुं चिन्त्य महाबाहो जहीमं मगधाधिपम्॥ 2-25-7(12323)
वैशम्पायन उवाच। 2-25-8x(1427)
एवमुक्तस्ततो भीमो मनसाऽऽचिन्त्य मारुतम्।
जनार्दनं नमस्कृत्य परिष्वज्य च फल्गुनम्'॥ 2-25-8(12324)
प्रभञ्जनबलाविष्टो जरासन्धमरिन्दमः।
उत्क्षिप्य भ्रामयामास बलवन्तं महाबलः॥ 2-25-9(12325)
भ्रामयित्वा शतगुणं जानुभ्यां भरतर्षभ।
बभञ्ज पृष्टं सङ्क्षिप्य निष्पिष्य विननाद च॥ 2-25-10(12326)
करे गृहीत्वा चरणं द्विधा चक्रे महाबलः।
तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः॥ 2-25-11(12327)
अभवत्तुमुलो नादः सर्वप्राणिभयङ्करः।
वित्रेसुर्मागधाः सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः॥ 2-25-12(12328)
भीमसेनस्य नादेन जरासन्धस्य चैव ह।
किं नु स्याद्धिमवान्भिन्नः किंनुस्विद्दीर्यते मही॥ 2-25-13(12329)
इति वै मागधा जज्ञुर्भीमसेनस्य निखनात्।
`ततस्तु भगवान्कृष्णो जरासन्धजिघांसया॥ 2-25-14(12330)
भीमसेनं समालोक्य नलं जग्राह पाणिना।
द्विधा चिच्छेद वै तत्तु जरासन्धवधं प्रति॥ 2-25-15(12331)
ततस्त्वाज्ञाय तस्यैव पादमुत्क्षिप्य मारुतिः।
द्विधा बभञ्ज तद्गात्रं प्राक्षिपद्विननाद च॥ 2-25-16(12332)
पुनः सन्धाय तु तदा जरान्धः प्रतापवान्।
भीमेन च समागम्य बाहुयुद्धं चकार ह॥ 2-25-17(12333)
तयोः समभवद्युद्धं तुमुलं रोमहर्षणम्।
सर्वलोकक्षयकरं सर्वभूतभयावहम्॥ 2-25-18(12334)
पुनः कृष्णस्तमिरिणं द्विधा विच्छिद्य माधवः।
व्यत्यस्य प्राक्षिपत्तत्तु जरासन्धवधेप्सया॥ 2-25-19(12335)
भीमसेनस्तदा ज्ञात्वा निर्बिभेद च मागधम्।
द्विधा व्यत्यस्य पादेन प्राक्षिपच्च ननाद ह॥ 2-25-20(12336)
शुष्कमांसास्थिमेदस्त्वग्भिन्नमस्तिष्कपिण्डकटः।
शवभूतस्तदा राजन्पिण्डीकृत इवाबबौ'॥ 2-25-21(12337)
ततो राज्ञः कुलद्वारि प्रसुप्तमिव तं नृपम्।
रात्रौ गतासुमुत्सृज्य निश्चक्रमुररिन्दमाः॥ 2-25-22(12338)
जरासन्धरथं कृष्णो योजयित्वा पताकिनम्।
आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान्॥ 2-25-23(12339)
ते वै रत्नुभुजं कृष्णं रत्नार्हं पृथिवीश्वराः।
राजानं चक्ररासाद्य मोक्षिता महतो भयात्॥ 2-25-24(12340)
अक्षतः शस्त्रसम्पन्नो जितारिः सह राजभिः।
रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात्॥ 2-25-25(12341)
यः स सोदर्यवान्नाम द्वियोधी कृष्णसारथिः।
अभ्यासघाती सन्दृश्यो दुर्जयः सर्वराजभिः॥ 2-25-26(12342)
भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः।
शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः॥ 2-25-27(12343)
शक्रविष्णू हि सङ्ग्रामे चेरतुस्तारकामये।
रथेन तेन वै कृष्ण उपारुह्य ययौ तदा॥ 2-25-28(12344)
`एवमेतौ महाबाहू तदा दुष्करकारिणौ।
कृष्णप्रणीतौ लोकेऽस्मिन्नथे को द्रष्टुमर्हति॥ 2-25-29(12345)
इत्यवोचन्व्रजन्तं तं जरासन्धपुरालयाः।
वासुदेवं नरश्रेष्ठं युक्तं वातजवैर्हयैः'॥ 2-25-30(12346)
तप्तचामीकराभेण किङ्किणीजालमालिना।
मेघनिर्घोषनादेन जैत्रेणामित्रघातिना॥ 2-25-31(12347)
येन शक्रो दानवानां जघान नवतीर्नव।
तं प्राप्य समहृष्यन्त रथं ते पुरुषर्थभाः॥ 2-25-32(12348)
ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा।
रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः॥ 2-25-33(12349)
हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे।
अधिष्ठितः स शुशुभे कृष्णेनातीव भारत॥ 2-25-34(12350)
असङ्गो देवविहितस्तस्मिन्रथवरे ध्वजः।
योजनाद्ददृशे श्रीमानिन्द्रायुधसमप्रभः॥ 2-25-35(12351)
चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात्।
क्षणे तस्मिन्स तेनासीच्चैत्यवृक्ष इवोत्थितः॥ 2-25-36(12352)
व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः।
तस्मिन्रथवरे तस्थौ गुरुत्मान्पन्नगाशनः॥ 2-25-37(12353)
दुर्निरीक्ष्यो हि भूतानां तेजसाऽऽभ्याधिकं बभौ।
आदित्य इव मध्याह्ने सहस्रकिरणावृतः॥ 2-25-38(12354)
न सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते।
दिव्यो ध्वजवरो राजन्दृश्यते चेह मानुषैः॥ 2-25-39(12355)
तमास्थाय रथं दिव्यं पर्जन्यसमनिः स्वनम्।
निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः॥ 2-25-40(12356)
यं लेभे वासवाद्राजा वसुस्तस्माद्बृहद्रथः।
बृहद्रथात्क्रमेणैव प्राप्तो बार्हद्रथो रथम्॥ 2-25-41(12357)
स निर्याय महाबाहुः पुण्डरीकेक्षणस्ततः।
गिरिव्रजाद्बहिस्तस्थौ समदेशे महायशाः॥ 2-25-42(12358)
तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा।
ब्राह्मणप्रमुखा राजन्विधिदृष्टेन कर्मणा॥ 2-25-43(12359)
बन्धनाद्विप्रमुक्ताश्च राजानो मधुसूदनम्।
पूजयामासुरूचुश्च स्तुतिपूर्वमिदं वचः॥ 2-25-44(12360)
नैतच्चित्रं महाबाहो त्वयि देवकिनन्दने।
भीमार्जुनबलोपेते धर्मस्य प्रतिपालनम्॥ 2-25-45(12361)
जरासन्धह्रदे घोरे दुःखपङ्के निमज्जताम्।
राज्ञां समभ्युद्धरमं यदिदं कृतमद्य वै॥ 2-25-46(12362)
विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे।
दिष्ट्या मोक्षाद्यशो दीप्तमाप्तं ते यदुनन्दन॥ 2-25-47(12363)
किं कर्मः पुरुषव्याघ्र शाधि नः प्रणतिस्थितान्।
कृतमित्येव तद्विद्वि नृपैर्ययद्यपि दुष्करम्॥ 2-25-48(12364)
वैशम्पायन उवाच॥ 2-25-49x(1428)
तानुवाच हृम्पीकेशः समाश्चास्य महामनाः।
यिधिष्ठिरो राजसूयं क्रतुमार्हतुमिच्छति॥ 2-25-49(12365)
तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः।
सर्वैर्भवद्भिर्विज्ञाय साहाय्यं क्रियतामिति॥ 2-25-50(12366)
ततः सुप्रीतमनसस्ते नृपा नृपसत्तम।
तथेत्येवाब्रुवन्सर्वे प्रतिगृह्यास्य तां गिरम्॥ 2-25-51(12367)
रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः।
कृच्छ्राञ्जग्राह गोविन्दस्तेषां तदनुकम्पया॥ 2-25-52(12368)
जरासन्धात्मजश्चैव सहदेवो महामनाः।
निर्ययौ सजनामात्यः पुरस्कृत्य पुरोहितम्॥ 2-25-53(12369)
स नीचैः प्रणतो भूत्वा बहुरत्नपुरोगमः।
सहदेवो नृणां देवं वासुदेवमुपस्थितः॥ 2-25-54(12370)
भयार्ताय ततस्तस्मै कृष्णो दत्त्वाऽभयं तदा।
आददेऽस्य महार्हाणि रत्नानि पुरुषोत्तमः॥ 2-25-55(12371)
`सददेव उवाच। 2-25-56x(1429)
यत्कृतं पुरुषव्याघ्र मम पित्रा जनार्दन।
तत्ते हृदि महाबाहो न कार्यं पुरुषोत्तम॥ 2-25-56(12372)
त्वां प्रपन्नोऽस्मि गोविन्द प्रासदं कुरु मे प्रभो।
पितुरिच्छामि संस्कारं कर्तुं देवकिनन्दन॥ 2-25-57(12373)
त्वत्तोऽभ्यनुज्ञां सम्प्राप्य भीमसेनात्तथार्जुनात्।
निर्भयो विचरिष्यामि यथाकामं यथासुखम्॥ 2-25-58(12374)
वैशम्पायन उवाच। 2-25-59x(1430)
एवं विज्ञाप्यमानस्य सहदेवस्य मारिष।
प्रहृष्टो देवकीपुत्रः पाण्डवै च महारथौ॥ 2-25-59(12375)
क्रियतां संस्क्रिया राजन्पितुस्त इति चाब्रुवन्।
तच्छ्रुत्वा वासुदेवस्य पार्थयोश्च स मागधः॥ 2-25-60(12376)
प्रविश्य नगरं तूर्णं सह मन्त्रिभिरप्युत।
चितां चन्दनकाष्ठैश्च कालेयसरलैस्तथा॥ 2-25-61(12377)
कालागरुसुनगन्धैश्च तैलैश्च विविधैरपि।
घृतधाराशतैश्चैव सुमनोभिश्च भारत॥ 2-25-62(12378)
समन्तादेव कीर्यन्तोऽदहन्त मगधाधिपम्।
उदकं तस्य चक्रेऽथ सहदेवः सहानुजः॥ 2-25-63(12379)
कृत्वा पितुः स्वर्गगतिं निर्ययौ यत्र केशवः।
पाण्डवौ च महाभागौ भीमसेनार्जुनावुभौ ॥ 2-25-64(12380)
स प्रह्वः प्राञ्जलिर्भूत्वा व्यज्ञापयत माधवम्। 2-25-65(12381)
सहदेव उवाच।
इमे रत्नानि भूरिणी गोजाविमहिषादयः॥ 2-25-65x(1431)
हस्तिनोऽश्वाश्च गोविन्द वासांसि विविधानि च।
दीयतां धर्मराजाय यथा वा मन्यते भवान्॥ 2-25-66(12382)
वैशम्पायन उवाच। 2-25-67x(1432)
भयार्ताय ततस्तस्मै कृत्वा कृष्णोऽभयं तदा।
अभ्यषिञ्चत राजानं सहदेवं जनार्दनः॥ 2-25-67(12383)
मागधानां महीपालं जरासन्धात्मजं तदा।
आददे च महार्हाणि रत्नानि पुरुषोत्तमः॥ 2-25-68(12384)
गत्वैकत्वं स कृष्णेन पार्थाभ्यां चापि सत्कृतः।
विवेश मतिमान्त्राजा पुनर्बार्हद्रथं पुरम्॥ 2-25-69(12385)
पार्थाभायं सहितः कृष्णः सर्वैश्च वसुधाधिपैः।
यथावयः समागम्य विससर्ज नराधिपान्॥ 2-25-70(12386)
विसृज्य सर्वान्नृपतीन्राजसूये महात्मभिः।
आगन्तव्यं भवद्भिश्च धर्मराजप्रियेप्सुभिः। 2-25-71(12387)
एवमुक्ता माधवेन सर्वे ते वसुधाधिपाः।
एवमस्त्विति चाप्युक्त्वा समेताः परया मुदा॥ 2-25-72(12388)
भीमार्जुनहृषीकेशैः प्रहृष्टाः प्रययुस्तदा।
रत्नान्यादाय भूरीणी ज्वलन्तो रिपुसूदनाः'॥ 2-25-73(12389)
कृष्णस्तु सह पार्थाभ्यां श्रिया परमया युतः।
रत्नान्यादाय भूरिणी प्रययौ पुरुषर्षभः॥ 2-25-74(12390)
इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः।
समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत॥ 2-25-75(12391)
दिष्ट्या भीमेन बलवाञ्जरासन्धो निपातितः।
राजानो मोक्षिताश्चेमे बन्धनान्नृपसत्तम॥ 2-25-76(12392)
दिष्ट्या कुशलिनौ चेमौ भीमसेनधनञ्जयौ।
पुनः स्वनगरं प्राप्तावक्षताविति भारत॥ 2-25-77(12393)
ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः।
भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे॥ 2-25-78(12394)
ततः क्षीणे जरासन्धे भ्रातृभ्यां विहितं जयम्।
अजातशत्रुरासाद्य मुमुदे भ्रातृभिः सह॥ 2-25-79(12395)
`हृष्टश्च धर्मराड्वाक्यं जनार्दनमभाषत।
त्वां प्राप्य पुरुषव्याघ्र भीमसेनेन पातितः॥ 2-25-80(12396)
मागधोऽसौ बलोन्मत्तो जरासन्धः प्रतापवान्।
राजसूयं क्रतुश्रेष्ठं प्राप्स्यामि विगतज्वरः॥ 2-25-81(12397)
त्वद्बुद्धिबलमाश्रित्य यागार्होऽस्मि जनार्दन।
पीतं पृथिव्याः क्रुद्धेन यशस्ते पुरुषोत्तम॥ 2-25-82(12398)
जरासन्धवधेनैव प्राप्तास्ते विपुलाः श्रियः॥ 2-25-83(12399)
वैशम्पायन उवाच।
एवं सम्भाष्य कौन्तेयः प्रादाद्रथवरं प्रभोः॥ 2-25-83x(1433)
प्रतिगृह्य तु गोविन्दो जरासन्धस्य तं रथम्॥ 2-25-84(12400)
प्रहृष्टस्तस्य मुमुदे फल्गुनेन जनार्दनः।
प्रीतिमानभवद्राजन्धर्मराजपुरस्कृतः'॥ 2-25-85(12401)
यथावयः समागम्य भ्रातृभिः सह पाण्डवः।
सत्कृत्य पूजयित्वा च विससर्ज नराधिपान्॥ 2-25-86(12402)
युधिष्ठिराभ्यनुज्ञातास्ते नृपा हृष्टमानसाः।
जग्मुः स्वदेशांस्त्वरिता यानैरुच्चावचैस्ततः॥ 2-25-87(12403)
एवं पुरुषशार्दूलो महाबुद्धिर्जनार्दनः।
पाण्डवैर्घातयामास जरासन्धमरिं तदा॥ 2-25-88(12404)
घातयित्वा जरासन्धं बुद्धिपूर्वमरिन्दमः।
धर्मराजमनुज्ञाप्य पृथां कृष्णां च भारत॥ 2-25-89(12405)
सुभद्रां भीमसेनं च फाल्गुनं यमजौ तथा।
धौम्यमामन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति॥ 2-25-90(12406)
`पाण्डवैरनुधावद्भिर्युधिष्ठिरपुरोगमैः।
हर्षेण महता युक्तः प्राप्य चानुत्तमं यशः।
जगाम हृष्टः कृष्णस्तु पुनर्द्वारवतीं पुरीम्'॥ 2-25-91(12407)
तेनैव रथमुख्येन मनसस्तुल्यगामिना।
धर्मराजविसृष्टेन दिव्येनानादयन्दिशः॥ 2-25-92(12408)
ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ।
प्रदक्षिणमकुर्वन्त कृष्णमक्लिष्टकारिणम्॥ 2-25-93(12409)
ततो गते भगवति कृष्णे देवकिनन्दने।
जयं लब्ध्वा सुविपुलं राज्ञां दत्त्वाऽभयं तदा॥ 2-25-94(12410)
संवर्धितं यशो भूयः कर्मणा तेन भारत।
द्रौपद्याः पाण्डवा राजन्परां प्रीतिमवर्धयन्॥ 2-25-95(12411)
तस्मिन्काले तु यद्युक्तं धर्मकामार्थसंहितम्।
तद्राजा धर्मतश्चक्रे प्रजापालनकीर्तनम्॥ ॥ 2-25-96(12412)
इति श्रीमन्महाभारते सभापर्वणि जरासन्धवधपर्वणि पञ्चविंशोऽध्यायः॥ 25॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-25-5 अवाप्यते प्राप्तः॥ 2-25-8 एवमुक्तस्तदा भीभो जरासन्धमिति झ. पाठः ॥ 2-25-15 नलं इरिणनामकं तृणविशेषम्॥ 2-25-22 कुलद्वारि गृहद्वारि॥ 2-25-35 असङ्गो रथस्पर्शहीनः॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|