(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

सभापर्व ~ महाभारत | Mahabharat Sabha Parv In Hindi


॥ श्रीः ॥
2.25. अध्यायः 025
Mahabharata - Sabha Parva - Chapter Topics
जरासन्धवधः॥ 1॥ जरासन्धेन बन्धीकृतानां राज्ञां कृष्णेन मोचनम्॥2॥ मोचितै राजभिः कृष्णाय रत्नादिदानम् ॥3॥ कृष्णानुज्ञया जरासन्धपुत्रेण सहदेवेन पितुरौर्ध्वदैहिककरणम्॥4॥ सहदेवं राज्येऽभिषिच्य श्रीकृष्णभीमार्जुनानामिन्द्रप्रस्थगमनम्॥ 5॥ जरासन्धवधश्रवणहृष्टेन युधिष्ठिरेण पूजितस्य कृष्णस्य द्वारकागमनम्॥ 6॥
Mahabharata - Sabha Parva - Chapter Text

वैशम्पायन उवाच।

भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम्।
बुद्धिमास्थाय विपुलां जरासन्धवधोप्सया॥ 2-25-1(12317)
नायं पापो मया कृष्ण युक्तः स्यादनुरोधितुम्।
प्रायेण यदुशार्दूल बान्धवक्षयकृत्तव॥ 2-25-2(12318)
एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम्।
त्वरयन्पुरुषव्याघ्रो जरासन्धवधेप्सया॥ 2-25-3(12319)
यत्ते दैवं परं सत्वं यच्च ते मातरिश्वनः।
बलं भीमं जरासन्धे दर्शयाशु तदद्य वै॥ 2-25-4(12320)
`तवैष वध्यो दुर्बुद्धिर्जरासन्धो महारथः।
इत्यन्तरिक्षे त्वश्रौषं यदा वायुरवाप्यते॥ 2-25-5(12321)
गोमन्ते पर्वतश्रेष्ठे येनैष परिमोक्षितः।
बलदेवबलं प्राप्य कोऽन्यो जीवेत्तु मागधात्॥ 2-25-6(12322)
तदस्य मृत्युर्विहितस्त्वदृते न महाबल।
वायुं चिन्त्य महाबाहो जहीमं मगधाधिपम्॥ 2-25-7(12323)
वैशम्पायन उवाच। 2-25-8x(1427)
एवमुक्तस्ततो भीमो मनसाऽऽचिन्त्य मारुतम्।
जनार्दनं नमस्कृत्य परिष्वज्य च फल्गुनम्'॥ 2-25-8(12324)
प्रभञ्जनबलाविष्टो जरासन्धमरिन्दमः।
उत्क्षिप्य भ्रामयामास बलवन्तं महाबलः॥ 2-25-9(12325)
भ्रामयित्वा शतगुणं जानुभ्यां भरतर्षभ।
बभञ्ज पृष्टं सङ्क्षिप्य निष्पिष्य विननाद च॥ 2-25-10(12326)
करे गृहीत्वा चरणं द्विधा चक्रे महाबलः।
तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः॥ 2-25-11(12327)
अभवत्तुमुलो नादः सर्वप्राणिभयङ्करः।
वित्रेसुर्मागधाः सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः॥ 2-25-12(12328)
भीमसेनस्य नादेन जरासन्धस्य चैव ह।
किं नु स्याद्धिमवान्भिन्नः किंनुस्विद्दीर्यते मही॥ 2-25-13(12329)
इति वै मागधा जज्ञुर्भीमसेनस्य निखनात्।
`ततस्तु भगवान्कृष्णो जरासन्धजिघांसया॥ 2-25-14(12330)
भीमसेनं समालोक्य नलं जग्राह पाणिना।
द्विधा चिच्छेद वै तत्तु जरासन्धवधं प्रति॥ 2-25-15(12331)
ततस्त्वाज्ञाय तस्यैव पादमुत्क्षिप्य मारुतिः।
द्विधा बभञ्ज तद्गात्रं प्राक्षिपद्विननाद च॥ 2-25-16(12332)
पुनः सन्धाय तु तदा जरान्धः प्रतापवान्।
भीमेन च समागम्य बाहुयुद्धं चकार ह॥ 2-25-17(12333)
तयोः समभवद्युद्धं तुमुलं रोमहर्षणम्।
सर्वलोकक्षयकरं सर्वभूतभयावहम्॥ 2-25-18(12334)
पुनः कृष्णस्तमिरिणं द्विधा विच्छिद्य माधवः।
व्यत्यस्य प्राक्षिपत्तत्तु जरासन्धवधेप्सया॥ 2-25-19(12335)
भीमसेनस्तदा ज्ञात्वा निर्बिभेद च मागधम्।
द्विधा व्यत्यस्य पादेन प्राक्षिपच्च ननाद ह॥ 2-25-20(12336)
शुष्कमांसास्थिमेदस्त्वग्भिन्नमस्तिष्कपिण्डकटः।
शवभूतस्तदा राजन्पिण्डीकृत इवाबबौ'॥ 2-25-21(12337)
ततो राज्ञः कुलद्वारि प्रसुप्तमिव तं नृपम्।
रात्रौ गतासुमुत्सृज्य निश्चक्रमुररिन्दमाः॥ 2-25-22(12338)
जरासन्धरथं कृष्णो योजयित्वा पताकिनम्।
आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान्॥ 2-25-23(12339)
ते वै रत्नुभुजं कृष्णं रत्नार्हं पृथिवीश्वराः।
राजानं चक्ररासाद्य मोक्षिता महतो भयात्॥ 2-25-24(12340)
अक्षतः शस्त्रसम्पन्नो जितारिः सह राजभिः।
रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात्॥ 2-25-25(12341)
यः स सोदर्यवान्नाम द्वियोधी कृष्णसारथिः।
अभ्यासघाती सन्दृश्यो दुर्जयः सर्वराजभिः॥ 2-25-26(12342)
भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः।
शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः॥ 2-25-27(12343)
शक्रविष्णू हि सङ्ग्रामे चेरतुस्तारकामये।
रथेन तेन वै कृष्ण उपारुह्य ययौ तदा॥ 2-25-28(12344)
`एवमेतौ महाबाहू तदा दुष्करकारिणौ।
कृष्णप्रणीतौ लोकेऽस्मिन्नथे को द्रष्टुमर्हति॥ 2-25-29(12345)
इत्यवोचन्व्रजन्तं तं जरासन्धपुरालयाः।
वासुदेवं नरश्रेष्ठं युक्तं वातजवैर्हयैः'॥ 2-25-30(12346)
तप्तचामीकराभेण किङ्किणीजालमालिना।
मेघनिर्घोषनादेन जैत्रेणामित्रघातिना॥ 2-25-31(12347)
येन शक्रो दानवानां जघान नवतीर्नव।
तं प्राप्य समहृष्यन्त रथं ते पुरुषर्थभाः॥ 2-25-32(12348)
ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा।
रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः॥ 2-25-33(12349)
हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे।
अधिष्ठितः स शुशुभे कृष्णेनातीव भारत॥ 2-25-34(12350)
असङ्गो देवविहितस्तस्मिन्रथवरे ध्वजः।
योजनाद्ददृशे श्रीमानिन्द्रायुधसमप्रभः॥ 2-25-35(12351)
चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात्।
क्षणे तस्मिन्स तेनासीच्चैत्यवृक्ष इवोत्थितः॥ 2-25-36(12352)
व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः।
तस्मिन्रथवरे तस्थौ गुरुत्मान्पन्नगाशनः॥ 2-25-37(12353)
दुर्निरीक्ष्यो हि भूतानां तेजसाऽऽभ्याधिकं बभौ।
आदित्य इव मध्याह्ने सहस्रकिरणावृतः॥ 2-25-38(12354)
न सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते।
दिव्यो ध्वजवरो राजन्दृश्यते चेह मानुषैः॥ 2-25-39(12355)
तमास्थाय रथं दिव्यं पर्जन्यसमनिः स्वनम्।
निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः॥ 2-25-40(12356)
यं लेभे वासवाद्राजा वसुस्तस्माद्बृहद्रथः।
बृहद्रथात्क्रमेणैव प्राप्तो बार्हद्रथो रथम्॥ 2-25-41(12357)
स निर्याय महाबाहुः पुण्डरीकेक्षणस्ततः।
गिरिव्रजाद्बहिस्तस्थौ समदेशे महायशाः॥ 2-25-42(12358)
तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा।
ब्राह्मणप्रमुखा राजन्विधिदृष्टेन कर्मणा॥ 2-25-43(12359)
बन्धनाद्विप्रमुक्ताश्च राजानो मधुसूदनम्।
पूजयामासुरूचुश्च स्तुतिपूर्वमिदं वचः॥ 2-25-44(12360)
नैतच्चित्रं महाबाहो त्वयि देवकिनन्दने।
भीमार्जुनबलोपेते धर्मस्य प्रतिपालनम्॥ 2-25-45(12361)
जरासन्धह्रदे घोरे दुःखपङ्के निमज्जताम्।
राज्ञां समभ्युद्धरमं यदिदं कृतमद्य वै॥ 2-25-46(12362)
विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे।
दिष्ट्या मोक्षाद्यशो दीप्तमाप्तं ते यदुनन्दन॥ 2-25-47(12363)
किं कर्मः पुरुषव्याघ्र शाधि नः प्रणतिस्थितान्।
कृतमित्येव तद्विद्वि नृपैर्ययद्यपि दुष्करम्॥ 2-25-48(12364)
वैशम्पायन उवाच॥ 2-25-49x(1428)
तानुवाच हृम्पीकेशः समाश्चास्य महामनाः।
यिधिष्ठिरो राजसूयं क्रतुमार्हतुमिच्छति॥ 2-25-49(12365)
तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः।
सर्वैर्भवद्भिर्विज्ञाय साहाय्यं क्रियतामिति॥ 2-25-50(12366)
ततः सुप्रीतमनसस्ते नृपा नृपसत्तम।
तथेत्येवाब्रुवन्सर्वे प्रतिगृह्यास्य तां गिरम्॥ 2-25-51(12367)
रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः।
कृच्छ्राञ्जग्राह गोविन्दस्तेषां तदनुकम्पया॥ 2-25-52(12368)
जरासन्धात्मजश्चैव सहदेवो महामनाः।
निर्ययौ सजनामात्यः पुरस्कृत्य पुरोहितम्॥ 2-25-53(12369)
स नीचैः प्रणतो भूत्वा बहुरत्नपुरोगमः।
सहदेवो नृणां देवं वासुदेवमुपस्थितः॥ 2-25-54(12370)
भयार्ताय ततस्तस्मै कृष्णो दत्त्वाऽभयं तदा।
आददेऽस्य महार्हाणि रत्नानि पुरुषोत्तमः॥ 2-25-55(12371)
`सददेव उवाच। 2-25-56x(1429)
यत्कृतं पुरुषव्याघ्र मम पित्रा जनार्दन।
तत्ते हृदि महाबाहो न कार्यं पुरुषोत्तम॥ 2-25-56(12372)
त्वां प्रपन्नोऽस्मि गोविन्द प्रासदं कुरु मे प्रभो।
पितुरिच्छामि संस्कारं कर्तुं देवकिनन्दन॥ 2-25-57(12373)
त्वत्तोऽभ्यनुज्ञां सम्प्राप्य भीमसेनात्तथार्जुनात्।
निर्भयो विचरिष्यामि यथाकामं यथासुखम्॥ 2-25-58(12374)
वैशम्पायन उवाच। 2-25-59x(1430)
एवं विज्ञाप्यमानस्य सहदेवस्य मारिष।
प्रहृष्टो देवकीपुत्रः पाण्डवै च महारथौ॥ 2-25-59(12375)
क्रियतां संस्क्रिया राजन्पितुस्त इति चाब्रुवन्।
तच्छ्रुत्वा वासुदेवस्य पार्थयोश्च स मागधः॥ 2-25-60(12376)
प्रविश्य नगरं तूर्णं सह मन्त्रिभिरप्युत।
चितां चन्दनकाष्ठैश्च कालेयसरलैस्तथा॥ 2-25-61(12377)
कालागरुसुनगन्धैश्च तैलैश्च विविधैरपि।
घृतधाराशतैश्चैव सुमनोभिश्च भारत॥ 2-25-62(12378)
समन्तादेव कीर्यन्तोऽदहन्त मगधाधिपम्।
उदकं तस्य चक्रेऽथ सहदेवः सहानुजः॥ 2-25-63(12379)
कृत्वा पितुः स्वर्गगतिं निर्ययौ यत्र केशवः।
पाण्डवौ च महाभागौ भीमसेनार्जुनावुभौ ॥ 2-25-64(12380)
स प्रह्वः प्राञ्जलिर्भूत्वा व्यज्ञापयत माधवम्। 2-25-65(12381)
सहदेव उवाच।
इमे रत्नानि भूरिणी गोजाविमहिषादयः॥ 2-25-65x(1431)
हस्तिनोऽश्वाश्च गोविन्द वासांसि विविधानि च।
दीयतां धर्मराजाय यथा वा मन्यते भवान्॥ 2-25-66(12382)
वैशम्पायन उवाच। 2-25-67x(1432)
भयार्ताय ततस्तस्मै कृत्वा कृष्णोऽभयं तदा।
अभ्यषिञ्चत राजानं सहदेवं जनार्दनः॥ 2-25-67(12383)
मागधानां महीपालं जरासन्धात्मजं तदा।
आददे च महार्हाणि रत्नानि पुरुषोत्तमः॥ 2-25-68(12384)
गत्वैकत्वं स कृष्णेन पार्थाभ्यां चापि सत्कृतः।
विवेश मतिमान्त्राजा पुनर्बार्हद्रथं पुरम्॥ 2-25-69(12385)
पार्थाभायं सहितः कृष्णः सर्वैश्च वसुधाधिपैः।
यथावयः समागम्य विससर्ज नराधिपान्॥ 2-25-70(12386)
विसृज्य सर्वान्नृपतीन्राजसूये महात्मभिः।
आगन्तव्यं भवद्भिश्च धर्मराजप्रियेप्सुभिः। 2-25-71(12387)
एवमुक्ता माधवेन सर्वे ते वसुधाधिपाः।
एवमस्त्विति चाप्युक्त्वा समेताः परया मुदा॥ 2-25-72(12388)
भीमार्जुनहृषीकेशैः प्रहृष्टाः प्रययुस्तदा।
रत्नान्यादाय भूरीणी ज्वलन्तो रिपुसूदनाः'॥ 2-25-73(12389)
कृष्णस्तु सह पार्थाभ्यां श्रिया परमया युतः।
रत्नान्यादाय भूरिणी प्रययौ पुरुषर्षभः॥ 2-25-74(12390)
इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः।
समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत॥ 2-25-75(12391)
दिष्ट्या भीमेन बलवाञ्जरासन्धो निपातितः।
राजानो मोक्षिताश्चेमे बन्धनान्नृपसत्तम॥ 2-25-76(12392)
दिष्ट्या कुशलिनौ चेमौ भीमसेनधनञ्जयौ।
पुनः स्वनगरं प्राप्तावक्षताविति भारत॥ 2-25-77(12393)
ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः।
भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे॥ 2-25-78(12394)
ततः क्षीणे जरासन्धे भ्रातृभ्यां विहितं जयम्।
अजातशत्रुरासाद्य मुमुदे भ्रातृभिः सह॥ 2-25-79(12395)
`हृष्टश्च धर्मराड्वाक्यं जनार्दनमभाषत।
त्वां प्राप्य पुरुषव्याघ्र भीमसेनेन पातितः॥ 2-25-80(12396)
मागधोऽसौ बलोन्मत्तो जरासन्धः प्रतापवान्।
राजसूयं क्रतुश्रेष्ठं प्राप्स्यामि विगतज्वरः॥ 2-25-81(12397)
त्वद्बुद्धिबलमाश्रित्य यागार्होऽस्मि जनार्दन।
पीतं पृथिव्याः क्रुद्धेन यशस्ते पुरुषोत्तम॥ 2-25-82(12398)
जरासन्धवधेनैव प्राप्तास्ते विपुलाः श्रियः॥ 2-25-83(12399)
वैशम्पायन उवाच।
एवं सम्भाष्य कौन्तेयः प्रादाद्रथवरं प्रभोः॥ 2-25-83x(1433)
प्रतिगृह्य तु गोविन्दो जरासन्धस्य तं रथम्॥ 2-25-84(12400)
प्रहृष्टस्तस्य मुमुदे फल्गुनेन जनार्दनः।
प्रीतिमानभवद्राजन्धर्मराजपुरस्कृतः'॥ 2-25-85(12401)
यथावयः समागम्य भ्रातृभिः सह पाण्डवः।
सत्कृत्य पूजयित्वा च विससर्ज नराधिपान्॥ 2-25-86(12402)
युधिष्ठिराभ्यनुज्ञातास्ते नृपा हृष्टमानसाः।
जग्मुः स्वदेशांस्त्वरिता यानैरुच्चावचैस्ततः॥ 2-25-87(12403)
एवं पुरुषशार्दूलो महाबुद्धिर्जनार्दनः।
पाण्डवैर्घातयामास जरासन्धमरिं तदा॥ 2-25-88(12404)
घातयित्वा जरासन्धं बुद्धिपूर्वमरिन्दमः।
धर्मराजमनुज्ञाप्य पृथां कृष्णां च भारत॥ 2-25-89(12405)
सुभद्रां भीमसेनं च फाल्गुनं यमजौ तथा।
धौम्यमामन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति॥ 2-25-90(12406)
`पाण्डवैरनुधावद्भिर्युधिष्ठिरपुरोगमैः।
हर्षेण महता युक्तः प्राप्य चानुत्तमं यशः।
जगाम हृष्टः कृष्णस्तु पुनर्द्वारवतीं पुरीम्'॥ 2-25-91(12407)
तेनैव रथमुख्येन मनसस्तुल्यगामिना।
धर्मराजविसृष्टेन दिव्येनानादयन्दिशः॥ 2-25-92(12408)
ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ।
प्रदक्षिणमकुर्वन्त कृष्णमक्लिष्टकारिणम्॥ 2-25-93(12409)
ततो गते भगवति कृष्णे देवकिनन्दने।
जयं लब्ध्वा सुविपुलं राज्ञां दत्त्वाऽभयं तदा॥ 2-25-94(12410)
संवर्धितं यशो भूयः कर्मणा तेन भारत।
द्रौपद्याः पाण्डवा राजन्परां प्रीतिमवर्धयन्॥ 2-25-95(12411)
तस्मिन्काले तु यद्युक्तं धर्मकामार्थसंहितम्।
तद्राजा धर्मतश्चक्रे प्रजापालनकीर्तनम्॥ ॥ 2-25-96(12412)

इति श्रीमन्महाभारते सभापर्वणि जरासन्धवधपर्वणि पञ्चविंशोऽध्यायः॥ 25॥

Mahabharata - Sabha Parva - Chapter Footnotes
2-25-5 अवाप्यते प्राप्तः॥ 2-25-8 एवमुक्तस्तदा भीभो जरासन्धमिति झ. पाठः ॥ 2-25-15 नलं इरिणनामकं तृणविशेषम्॥ 2-25-22 कुलद्वारि गृहद्वारि॥ 2-25-35 असङ्गो रथस्पर्शहीनः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.